Tuesday, August 12, 2008

शोधमंगलाचरणं


येनैव हूणयवनादय ईशभक्ता
रत्नाकरायनसमस्तदिशा दयापाः ।
चैतन्यसीधुधिपृषद्भवभुक्स्रवन्तं
सारस्वतं क्षितिगुरुं प्रभुपादमीडे ॥ १ ॥



गोविन्ददेवदयितं परमार्थपूर्णं
विद्वत्स्वहो जयपुरे जयभूषितं वै ।
न्यायश्रुतिस्मृतिविवादसमोर्ध्वहीनं
वेदान्तरिक्थबलदेवयतिं नमामि ॥ २ ॥


यद्रुग्विधुह्रिकरणं यदचिन्त्यभेदा-
भेदोपपत्तिविभवेन कुवादलोपः ।
संकीर्तनेन हि वरावरपात्रकारे
जाम्बूनदत्विगवतारपदे नतोऽहम् ॥ ३ ॥

आम्नायवृन्दसरणीकृतिनापि खिन्नस्-
तत्रेशवृत्तिप्रभुताशयतामकृत्वा ।
वेदान्तभाष्यतनुभागवतप्रणेत्रे
द्वैपायनाय गुरुणा तु नमोऽस्तु तस्मै ॥ ४ ॥


यन्नाममात्रपरमस्तदभिन्नशक्त्या
यः स्वप्रपन्नप्रणयेन वशीकृतो वै ।
वृन्दावनौकअतिशयिविहारधाम्नी
गोविन्ददेवचरणे विनयेन नौमि ॥ ५ ॥


शक्वरी (वसन्ततिलका) छंदः

1 comment:

  1. This is the mangalacarana I composed for starting my PhD research work.

    ReplyDelete