स्नेहसूत्रम्
बालातपमयूखो'स्ति विप्रकर्षेण मंजुलः !
संनिधेः परकाले तु तस्मात्पराजयेत हि !! १ !!
कूले' र्हणनिदानो हि सुदुर्मेयपयोनिधिः !
तरते मध्यभागे तु त्रासानुभवसम्भवः !! २ !!
मधुसुमानि शोभन्ते मुकुलितानि निष्कुटे !
किंतु लूनानि शीर्यन्ते मण्डनाय निकेतने !! ३ !!
स्वर्गभ्रान्त्या प्रपद्यन्ते विचित्राशा दवीयसीः !
सम्पाद्यते'पि तत्रैव त्रिविधवेदनादशा !! ४ !!
मृगयुध्वनितातोद्यचारुस्वरविलोभितः !
कृष्णसारो यमग्रस्तो यदा तमनुवर्तते !! ५ !!
स्मिततारुण्यसम्पन्नकान्तिमूर्तिकुमारिका !
विकृतरूपसंजाता सैव द्रुतं सुवासिनी !! ६ !!
अन्तःकरणनिष्पन्नप्रणयविषयस्तथा !
आदरपात्रमेवास्तु दूरे'न्यन्न कदाचन !! ७ !!
वरमपूरिताभिष्टस्वच्छ्न्दघटिताहतिः !
न च कृतार्थसंकल्पो यदाशाभंगकंटकम् !! ८ !!
वरं पूर्वगतावृत्तिविदितचिरयातना !
न च तद,भूमिकाध्वान्तवल्गनापूर्ववेदना !! ९ !!
कृष्णवर्त्मस्वभावो हि यथाविश्रान्तप्रोषणम् !
प्रसक्तगलनं शीलं तथा विकलचेतसः !! १० !!
अधिगमनचिन्तादाववेक्षणोद्यमस्ततः !
अन्ते व्योगखेदश्च त्रिगुणक्लेशदा स्पृहा !! ११ !!
कृत्स्नेप्सितानि विस्मृत्य तज्जातापेक्षणानि च !
स्मरेत्तु कमलाक्षस्य निर्वातकदले पदे !! १२ !!
अनुष्टुप,(पथ्या) छंदः


1 Comments:
I wrote this in Puri, in June of2004, and offered it to Lord Jagannatha on the Ratha-yatra day. This is an accurate picture of my perception of some of the features of the external manifestation and the way we interact with it. Indeed, I am just expressing through poetry the fact that there is hardly anything poetical about it.
Post a Comment
Subscribe to Post Comments [Atom]
Links to this post:
Create a Link
<< Home