बालातपमयूखोऽस्ति विप्रकर्षेण मंजुलः |
संनिधेः परकाले तु तस्मात्पराजयेत हि || १ ||
कूलेऽर्हणनिदानो हि सुदुर्मेयपयोनिधिः |
तरतो मध्यभागे तु त्रासानुभवसम्भवः || २ ||
मधुसुमानि शोभन्ते मुकुलितानि निष्कुटे |
किंतु लूनानि शीर्यन्ते मण्डनाय निकेतने || ३ ||
स्वर्गभ्रान्त्या प्रपद्यन्ते विचित्राशा दवीयसीः |
सम्पाद्यतेऽपि तत्रैव त्रिविधवेदना दशा || ४ ||
मृगयुध्वनितातोद्यचारुस्वरविलोभितः |
कृष्णसारो यमग्रस्तो यदा तमनुवर्तते || ५ ||
स्मिततारुण्यसम्पन्नकान्तिमूर्तिकुमारिका |
विकृतरूपसंजाता सैव द्रुतं सुवासिनी || ६ ||
अन्तःकरणनिष्पन्नप्रणयविषयस्तथा |
आदरपात्रमेवास्तु दूरेऽन्यन्न कदाचन || ७ ||
वरमपूरिताभिष्टस्वच्छ्न्दघटिताहतिः |
न च कृतार्थसंकल्पो यदाशाभंगकंटकम् || ८ ||
वरं पूर्वगतावृत्तिविदितचिरयातना |
न च तद्भूमिकाध्वान्तवल्गनापूर्ववेदना || ९ ||
कृष्णवर्त्मस्वभावो हि यथाविश्रान्तप्रोषणम् |
प्रसक्तगलनं शीलं तथा विकलचेतसः || १० ||
अधिगमनचिन्तादाववेक्षणोद्यमस्ततः |
अन्ते वियोगखेदश्च त्रिगुणक्लेशदा स्पृहा || ११ ||
कृत्स्नेप्सितानि विस्मृत्य तज्जातापेक्षणानि च |
स्मरेत्तु कमलाक्षस्य निर्वातकदले पदे || १२ ||
अनुष्टुप,(पथ्या) छंदः
I wrote this in Puri, in June of2004, and offered it to Lord Jagannatha on the Ratha-yatra day. This is an accurate picture of my perception of some of the features of the external manifestation and the way we interact with it. Indeed, I am just expressing through poetry the fact that there is hardly anything poetical about it.
ReplyDelete